बालमोदिनी

कश्चन युवकः पर्वते स्थितं संन्यासिनं द्रष्टुं पर्वतारोहणं कर्तुमारब्धवान् ।  यदा सूर्यास्तः जातः अन्धकारकारणेन अग्रे गन्तुं बिभ्यन् तत्रैव स्थितवान् ।  हस्तेन दीपं गृहीत्वा उपरि गच्छन्तं कञ्चन वृद्धम् अनुसृत्य उपरि आगत्य पृच्छति 'लघुदीपं स्वीकृत्य अन्धकारे कथं गच्छति?’ इति । तदा सः वृद्धः वदति -’अग्रे गमनाय हस्ते दीपः, पादयोः प्रकाशः भवति चेत् अन्यत् किमपि न आवश्यकम् । यत् दूरम् अतिक्रान्तम्, अग्रे यत् गन्तव्यं च इति चिन्ता नास्ति ।  इदानीं यानि कानिचन पदानि स्थापनीयानि तदर्थम् एषः प्रकाशः पर्याप्तः' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A young man started climbing a mountain to see a sage who resided there. When the sun set and it became dark, he was afraid to proceed further and stayed where he was. He then followed an old man who was climbing up with a lamp in his hand and asked him, "How do you proceed in the dark with a small lamp?" The old man replied, "To move forward, if the lamp in hand illuminates the feet, nothing else is needed. There's no need to worry about how far you've come or where you need to go next. This light is enough for taking the steps that need to be taken now."

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.