बालमोदिनी

कश्चन ख्यातः विद्वान् कञ्चित् ज्योतिषिकं द्रष्टुं गतः द्वित्रैः अनुयायिभिः सह । ख्यातनामा सः ज्योतिषिकः मुखदर्शनमात्रेण एव पुरतः‌ स्थितस्य जनस्य गुणस्वभावादिकं वक्तुं समर्थः आसीत् । सः विदुषः मुखं किञ्चित् कालं दृष्ट्वा तस्मिन् विद्यमानान् बहून् दुर्गुणान् उल्लिखितवान् । तथापि सः महाजनः दक्षिणारूपेण प्रभूतं धनं दत्त्वा ततः प्रतिगतवान् । प्रतिगमनसमये कश्चन अनुयायी अपृच्छत् 'यद्यपि सः ज्योतिषिकः अप्रियान् अंशान् बहुधा श्रावितवान् तथापि भवता तस्मै प्रभूतं धनं किमर्थं दत्तम्?’ इति । तदा सः महाजनः अवदत् ' सः यद्यत् अवदत् ते दुर्गुणाः मयि सन्ति । अतः तदीयं सामर्थ्यं पुरस्कुर्वन् अहं तस्मै प्रभूतं‌ धनं‌ दत्तवान् । किन्तु तेन अनुक्तः कश्चन विशेषगुणः अस्ति मयि । सा अस्ति आत्मनिग्रहशक्तिः । ताम् अवलम्ब्य अहं‌ तान् दुर्गुणान् निगृहीतवान् अस्मि' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

A renowned scholar once visited an astrologer, accompanied by a few followers. The astrologer, known for describing a person’s nature just by looking at their face, observed the scholar briefly and listed many faults in him. Yet, the scholar gave the astrologer a large sum of money and departed. On the way back, one follower asked, “Though he spoke so many unpleasant things, why did you reward him so generously?” The scholar replied: “What he said about my faults is true. I honored his ability by giving him wealth. But there is one special quality in me that he did not mention—self-control. By relying on it, I have subdued those faults”.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.