कदाचित् कक्ष्यायाम् एकैकशः आगत्य श्लोककथनम् आरब्धवन्तः छात्राः । आदौ एकः छात्रः भीत्या आगत्य श्लोककथनम् आरब्धवान् । अर्धं यावत् श्रावितं तावता शिक्षकः 'अलम्! स्थगय !’ इति असूचयत । सः म्लानमुखः सन् प्रत्यागतवान् । एवमेव दशाधिकाः छात्राः अपि अध्यापकस्य 'स्थगय' इति आदेशं श्रुत्वा श्लोककथनं स्थगयित्वा स्वस्थानं गतवन्तः । यदा धीरजः इति छात्रः आगत्य कथनम् आरब्धवान् तदा 'स्थगय' इति अध्यापकेन उक्तं चेदपि सः समग्रं श्लोकं श्रावयित्वा अगच्छत् । अध्यापकः अवदत् 'श्लोकं समग्रतया श्रावयितुम् यद्यपि सर्वे अपि शक्ताः तथापि न्यूनेन आत्मविश्वासकारणेन कथनं स्थगयित्वा स्वस्थानम् अगच्छन् । आत्मविश्वासपरीक्षणाय एव मया भवन्तः श्लोककथनाय प्रेरिताः । तत्र धीरजः एकः एव उत्तीर्णः' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
In a classroom, students were called one by one to recite a verse. The first student, trembling with fear, began his recitation, but before he could complete it, the teacher interrupted saying, “Enough, stop!” The boy, with a sad face, returned to his seat. In the same way, more than ten students attempted, but each was stopped midway by the teacher’s command and went back to their places. Finally, when a student named Dheeraj came forward and began his recitation, the teacher again said “Stop!” Yet Dheeraj, with confidence, continued and completed the entire verse before returning. The teacher then explained that although all the students were capable of reciting the verse fully, most lacked self-confidence. He had arranged this exercise only to test their inner courage. Among all, only Dheeraj passed the test by showing confidence and determination.
What is बालमोदिनी?
सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।
Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.