बालमोदिनी

सप्त भ्रातरः । सर्वेऽपि अलसाः । कदाचित् पायसं निर्मितवन्तः । अन्ते ज्ञातं यत् गृहे शर्करा नास्ति इति । इदानीं विपणिं गत्वा शर्करां कः अनयति इति विवादः । कश्चन एकम् उपायं असूचयत् ' सर्वे स्थालिकां पायसेन पूरयामः, मौनेन उपविशामः । अस्मासु यः आदौ वदिष्यति सः एव गत्वा शर्कराम् आनेष्यति'। घण्टां यावत् सर्वे मौनेन उपविष्टवन्तः । तावता शुनकाः आगत्य विद्यमानं पायसं सर्वम् खादितवन्तः । अन्ते पित्रा आगत्य एते तर्जिताः । तदारभ्यः सर्वे आलस्यं परित्यज्य परिश्रमेण कार्यं कृतवन्तः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

The seven brothers were all lazy. One day they prepared sweet porridge, but discovered there was no sugar at home. They argued over who should go to the market. Finally, they decided: each would fill a bowl with porridge and sit silently; whoever spoke first must fetch the sugar. For hours they sat in silence. Meanwhile, dogs came and ate all the porridge. When their father arrived, he scolded them. From that day, the brothers abandoned laziness and worked diligently.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.