बालमोदिनी

कदचित् उषास्नाता कलिका स्वस्य अनुपमं सौन्दर्यम् अवलोक्य गर्विता ।  सहसा तस्याः‌ दृष्टिः समीपस्थं धूलिधूसरितं पाषाणखण्डं दृष्ट्वा 'ईश्वरेण कीदृशीं विकृतिं गमितः त्वम्' इति उक्तवती । पाषाणखण्डः किमपि अनुक्त्वा तूष्णीम् अतिष्ठत् । अग्रिमदिने कश्चन मूर्तिकारः आगत्य तेन पाषाणखण्डेन एकां देवमूर्तिम् अरचयत् । एकस्मिन् मन्दिरे स्थापितवान् च  । अग्रिमदिने यदा सा कलिका पुष्पतां गता कश्चन भक्तः तत् पुष्पम् अविचित्य देवविग्रहस्य चरणयोः समर्पितवान् । स्वस्य अधोगतिं दृष्ट्वा कलिकया महान् खेदः अनुभूतः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

One day, a bud admired her unparalleled beauty and became proud. Suddenly, her gaze fell upon a nearby dust-covered piece of stone and she said, 'What a distorted state the Creator has placed you in!' The stone remained silent and unresponsive. The next day, a sculptor arrived and carved that stone into an idol of a deity, which he then placed in a temple. On the following day, the bud, now turned into a flower, was plucked by a devotee and offered at the feet of the deity's idol. Witnessing her own downfall, the bud felt immense regret.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.