बालमोदिनी

साधारणतया  ज्येष्ठैः चिन्त्यते यत् अपूर्वा सिद्धि केवलं तरुणैः एव प्राप्तुं शक्या, वयोज्येष्ठाः किं वा कुर्युः इति ।  तरुणाः चिन्तयन्ति यत् ज्येष्ठानां जीवनानुभवः विवेचनशक्तिः च अपारा ।  अतः तैः एव विशिष्टा सिद्धिः सम्पादयितुं शक्या इति ।  कथायाम् अस्यां कश्चन प्रवचनकारः वदति यत् - ‘वस्तुतः दैहिकवयसः, सिद्धेः च न विशेषसम्बन्धः ।  केचन तारुण्ये एव अनासक्तिनाशं प्राप्य निरुत्साहाः भवन्ति ।  अन्ये केचन वार्धक्ये अपि उत्साहं परिरक्षन्ति ।  अतः कार्योत्साहः एव सिद्धेः कारणं, न तु वयः' ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Generally, elders think that unprecedented achievements can only be attained by the young, and wonder what the elderly can do. The young think that the life experience and discerning power of the elders are immense, and thus, only they can accomplish unique achievements. In this story, a preacher says, "In truth, there is no special connection between physical age and achievement. Some people, even in their youth, become dispassionate and lose enthusiasm. Others, even in old age, maintain their enthusiasm. Therefore, enthusiasm for work is the cause of achievement, not age."

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.