बालमोदिनी

कस्मिंश्चित् राज्ये नूतनमन्त्रिणः चयनदायित्वं राजा वृद्धाय मन्त्रिणे दत्तवान् । निश्चिते दिने बहवः युवकाः अर्हतापरीक्षार्थं राजभवने उपस्थिताः अभवन् । वृद्धः मन्त्री पेयवितारकरूपेण, कृषकरूपेण च वेषं धृत्वा परीक्षाम् अकरोत् । तत्र एकः एव युवकः चषकसङ्ग्रहणे, पङ्कात् शकटस्य उन्नयने च साहाय्यम् अकरोत् । सः एव योग्यतमः इति विचिन्त्य तमेव नूतनमन्त्रित्वेन चितवान् मन्त्री ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
In a certain kingdom, the king gave the responsibility of selecting a new minister to an old minister. On the decided day, many young men came to the king's palace to take the eligibility test. The old minister, disguised as a drink server and farmer, conducted the test. One young man helped in collecting cups and lifting a cart from the mud. Considering him the most suitable, the old minister chose him as the new minister.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.