बालमोदिनी

स्वातन्त्र्यसङ्ग्रामकाले यदा गान्धिवर्यः धनसङ्ग्रहणं कुर्वन्नासीत् तदा काचित् निर्धना जीर्णशीर्णावस्थायुक्ता वृद्धा गान्धिवर्यम् उपसर्प्य भक्त्या नमस्कृत्य कटिस्थेन जीर्णवसनेन ग्रन्थीकृत्य संरक्षिताम् एकां कपर्दिकां निष्कास्य तस्य पादयोः समीपे संस्थाप्य ततः निर्गता । यदा श्रेष्ठिवर्यः श्री जमनालालः गणनायां लेखितुं कपर्दिकाम् अयाचत तदा गान्धिवर्यः तां न अयच्छत् । किमर्थम् ?  तस्याः कपर्दिकायाः विशेषः कः ?  एतत् सर्वं कथां श्रुत्वा जानन्तु ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
During the freedom struggle, when Gandhiji was collecting money, a poor, elderly woman approached him. With great devotion, she bowed down, took a coin wrapped in her old cloth, and placed it near Gandhiji's feet before leaving. Later, when Jamnalalji asked the coin to write down the account, Gandhiji refused to give it. Why did he refuse? What was special about the coin? You will learn the answer after hearing the story.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.