बालमोदिनी

कदाचित् वङ्गप्रदेशात् कालिचरणनामकः कश्चन भगवद्भक्तः चम्पानगर्यां स्थितं विष्णुदेवालयम् आगतः । महत्याः वृष्ट्याः उपशान्तेः अनन्तरं सः भक्त्या कर्दमपूर्णे मार्गे नृत्यं कुर्वन् अग्रे अगच्छत् । तदवसरे तस्य पादक्षेपेण उत्थितः कर्दमः कस्याश्चित् महिलायाः शाटिकां पतितः इति कारणेन तस्याः पतिः क्रोधेन दुर्वचनानि वदन् कालिचरणं प्रहृतवान् । कालिचरणः कारणम् अवगत्य दुःखितः भूत्वा धर्मशालां प्रति प्रस्थितः । सा महिला अपि दुर्वचनानि अवदत् । तदवसरे पादस्खलनेन तस्याः पतिः भूमौ पतित्वा मूर्छितः अभवत् । तदा कालिचरणः अवदत् 'यदि सः पतिः प्रियतमां पत्नीं प्रति असावधानेन मया कृतम् अपराधं न क्षाम्येत् तर्हि मद्विषये सावधानेन तेन कृतम् अपराधं मत्प्रियः श्रीहरिः कथं‌ क्षाम्येत्?’ इति । तदा तत्र सम्मिलिताः सर्वे 'अयं महान् भगवद्भक्तः' इति ज्ञात्वा क्षमाम् अयाचन्त ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Kalicharana, a devotee from Bengal, visited a Vishnu temple in Champanagari. After heavy rain, while dancing through a muddy path in devotion, his foot splashed mud onto a woman’s sari. Her angry husband insulted and struck him. Saddened, Kalicharana quietly left for a dharmashala. Later, the husband slipped and fainted. Kalicharana humbly said, “If he cannot forgive my unintentional mistake, how will Lord Hari forgive the husband's deliberate ones?” Moved by his words, everyone recognized him as a true devotee and sought his forgiveness.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.