बालमोदिनी

बालमोदिनी Trailer Bonus Episode 63 Season 1

सङ्गात् सञ्जायते कामः

00:00
सङ्गः अपि विनाशस्य कारणं भवितुम् अर्हति इति अनया कथया ज्ञायते । आसीत् एकस्मिन् वनप्रदेशे मानसोल्लासः नाम ऋषिः यः सत्यवचनः परमकारुणिकः च । तस्य आश्रमे पशवः सर्वे पारस्परिकं वैरभावं विस्मृत्य मोदेन क्रीडन्ति स्म । गच्छता कालेन तस्य आसुरीप्रवृत्तिः उद्भूता । कथं केनोपायेन च इन्द्रेण एतत् सम्पादितम् इति स्वारस्यकरीं कथां शृण्मः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
From this story, it is understood that attachment can also become a cause of destruction. There was a sage named Manasollasa in a certain forest area, who was truthful and extremely compassionate. In his ashrama, all the animals, forgetting their mutual enmity, played together joyfully. However, with time, his evil tendencies arose. Let us hear the story of how this was brought about, and how it was accomplished by Indra through some means, which led to his downfall.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.