कदाचित् चरकाचार्यः शिष्यैः सह ग्रामप्रदेशे सञ्चरन् कस्यचित् कृषिक्षेत्रे एकम् अपूर्वं सस्यम् अपश्यत् । कश्चित् शिष्यः उत्साहेन पर्णकाण्डमूलानां सङ्ग्रहणाय यदा उद्यतः तदा चरकाचार्यः तं निवार्य सस्यादीनां सङ्ग्रहाय क्षेत्रस्वामिनः अनुज्ञा प्राप्तव्या इति अवदत् । लोकोपकराय सस्यसङ्ग्रहणाय कस्यापि अनुज्ञा प्राप्तव्या नास्ति इति राजाज्ञा अस्ति खलु इति शिष्येण उक्ते अचार्यः वदति - ‘राजाज्ञा अन्या, शिष्टाचारः अन्यः । अनुज्ञां विना अन्याधीनस्य वस्तुनः स्वीकारः अनुचितः इति तु शिष्टाचारः' इत्यादिभिः वचनैः अस्माकं शिष्टाचारः व्यवहारः च कथं भवेदिति बोधयति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, Charaka, the great sage, was traveling with his disciples in a rural area when they saw an extraordinary plant in a farmer's field. One of the disciples, eager to collect the leaves, stems, and roots, was stopped by Charaka, who said that permission must be obtained from the owner of the field before collecting the plants. When the disciple mentioned that there was a royal order that no permission was needed for collecting plants for the benefit of the people, the teacher explained, "Royal orders are one thing, but proper conduct is another. Accepting something belonging to someone else without permission is improper conduct." With these words, he taught how our conduct and behavior should be governed by ethical principles.
What is बालमोदिनी?
सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।
Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.