बालमोदिनी

चित्रकूटप्रदेशे दीर्घजीवी नाम ऋषिः आश्रमे निवसति । तत्र जनाः वृक्षच्छेदनं कृत्वा गृहाणि निर्मितवन्तः, अङ्गारनिर्माणं च कृतवन्तः, येन वनं वृक्षशून्यं जातम् । कालेन अनावृष्ट्या जलाशयाः शुष्काः अभवन्, जनाः, पशवः च मरणासन्नाः सन्तः महतीं पीडां अनुभवन्ति स्म । तत्प्रदेशे निवसन् कश्चन काष्ठोपजीवी पिपासया क्लान्तः आश्रमे दीर्घजीविनं दृष्ट्वा जलं भोजनं च प्राप्तवान् । तेन देशस्य दुःस्थितेः कारणे पृष्टे दीर्घजीवी अवदत् यत् वृक्षच्छेदनं, अग्निसंयोगः च एतस्य संकटस्य कारणम् इति । सः काष्ठोपजीविनं वृक्षारोपणाय प्रेरयन् देशस्य रक्षणे प्रवृत्तिं कर्तुम् उक्तवान् । सः काष्ठोपजीवी दीर्घजीविनः उपदेशं स्वीकृत्य वृक्षारोपणाय कृतनिश्चयः स्वग्रामं प्रत्यागतः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

In the Chitrakoot region, the long-lived name Rishi resides in the ashram. People there cut down trees, built houses, and built coal mines, which cleared the forest of trees. Over time, the droughts dried up the ponds, and the people and animals suffered greatly from the death toll. A woodpecker that lived in that country, of thirst, saw a long life in a shelter and got water and food. When asked about the plight of the country, Dirghajeevi Rishi said that the crisis was caused by tree felling and arson. He called for a drive to save the country by motivating woodworkers to plant trees. He returned to his village, determined to plant trees, took the advice and planted the trees.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.