बालमोदिनी

कस्मिंश्चित् ग्रामे कश्चन परिवारः प्रतिवेशिगृहिण्या ग्राममगमनप्रसङ्गे परिवारं पाकसाहाय्यार्थं प्रार्थितः । गृहिणी नित्यं गृहद्वयस्य कृते पाकं करोति स्म । तस्याः पुत्रः एतदवलोक्य मातरम् अपृच्छत् यत् आदौ परेषां कार्यं कर्तव्यं खलु? तस्य जिज्ञासया प्रसन्ना सा परसेवायाः महत्त्वं, प्रतिवेशिनः कृते उष्णभोजनं श्रेयस्करं इति च व्याख्यातवती । बालः तस्याः भावम् अवगत्य सेवाविषये बहुमूल्यं पाठं पठितवान् । पश्चात् "विनोबा भावे" इति नाम्ना प्रथितः अभवत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
In a village, a cultured family helped their neighbor by cooking while she was away. The wife cooked for both homes daily. Her son, Vinu, noticed this and questioned the appropriateness of prioritizing the neighbor's needs. Pleased with his inquiry, she explained the importance of serving others and that hot food for the neighbor was preferable. Vinu understood her sentiment and learned a valuable lesson about service. He later gained recognition as "Vinoba Bhave."

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.