बालमोदिनी

बाणभट्टः प्रसिद्धः कविः । चित्रभानुराजदेव्योः पुत्रः सः । चतुर्दशे वयसि पितृवियोगे सति दुःखं विस्मर्तुं देशाटनम् आरब्धवान् । तारुण्ये सः ग्रामम् आगत्य स्वस्य प्रवासानुभवान् जनान् आख्यानरूपेण श्रावयति स्म । ततः सम्राजः श्रीहर्षस्य आस्थानकवित्वं प्राप्तवान् सः अचिरात् एव राज्ञः प्रियः अभवत् । एतेन बाणभट्टेन एव 'हर्षचरितं' 'कादम्बरी' इत्येतौ ग्रन्थौ रचितौ ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Banabhatta was a famous poet. He was the son of Chitrabhanu and Rajadevi. When he was fourteen years old, he lost his father. To overcome his sorrow, he began travelling to different places. In his youth, he returned to his village and used to narrate his travel experiences to people in the form of stories. Later, he became the court poet of Emperor Harsha. Within a short time, he became very dear to the king. Banabhatta wrote the famous works Harshacharita and Kadambari.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.