बालमोदिनी

कश्चित् वणिक् वाणिज्ये महतीं हानिम् अनुभूय भोजराजं प्रचुरं धनं ऋणरूपेण अयाचत  "यावच्छक्यम् अस्मिन् जीवनकाले एव प्रत्यर्पयिष्यामि । यत् शिष्टं स्यात् तत् जन्मान्तरे प्रत्यर्पयिष्यामि" इति अवदत् च । गमनावसरे सायङ्काले सम्प्राप्ते कस्यचित् तिलकस्य गृहे न्यवसन्, रात्रौ बलीवर्दयोः सम्भाषणं श्रुतवान् । पशुभाषाभिज्ञः सः ज्ञातवान् यत् तौ द्वौ पूर्वस्मिन् जन्मनि एतस्मात् तिलकात् ऋणं स्वीकृतवन्तौ आस्ताम् । इह जन्मनि तैलपेषणीम् आवहन्तौ महता कष्टेन ऋणं प्रत्यर्पयन्तौ स्तः इति । अपरस्मिन् जन्मनि ऋणप्रत्यर्पणभारं वोढुं सर्वथा नेच्छन् सः वणिक्, भोजराजं सर्वं वृत्तान्तम् उक्त्वा, स्वीकृतं धनं प्रत्यर्पयत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A certain merchant, who had suffered a loss, took a large loan from King Bhoja, saying he would repay it as soon as possible in this lifetime and whatever remained in the next life. In the evening, while returning home, he stayed at an oil miller's house and overheard a conversation between an ox and a bull, as he could understand the language of animals. He learned that both the ox and the bull had taken a loan from the oil miller in their previous birth, and now, with great difficulty, they were repaying it. The merchant, not wanting to carry the burden of repaying the debt in the next life, returned the loan to the king the next day.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.