बालमोदिनी

दैवभक्त्या, निःस्पृहतया, परोपकारशीलतया च सर्वत्र ख्यातः आसीत् भगवद्भक्तः गुम्फनदासः । तं सत्कर्तुम् इच्छन् राजा मानसिंहः स्वयं तदीयं गृहं गतवान् । तत्र दर्पणरूपेण जलम्, आसनरूपेण तृणानि दृष्ट्वा राजा रजतासनं सुवर्णदर्पणं कारयित्वा दास्यामि इति वदति । तत् गुम्फनदासेन निराक्रियते । दैनन्दिनव्ययाय धनं, ग्रामाधिकारिपदं वा स्वीक्रियताम् इति राजनि उक्ते धनं काष्ठकीर्णकीटः इव बाधते, अपि च अहं भगवद्भक्तपदेन एव तृप्तः अस्मि इति वदति । अन्यत् किमपि न अवश्यकम् इति वदति । तस्य निःस्पृहतां दृष्ट्वा तं सादरं प्रणम्य ततः राजा निर्गच्छति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Gumphana Das was widely known for his devotion to God, selflessness, and helpful nature. Wanting to honor him, King Manasinha personally visited his home. There, he saw water used as a mirror and grass used as seating. The king offered to make a silver throne and a golden mirror for him, but Gumphana Das refused. When the king offered money for daily expenses or a village administrator position, Gumphana Das replied that money was like a troublesome insect and that he was content with being a devotee of God. He did not need anything else. Seeing his selflessness, the king respectfully bowed to him and left.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.