बालमोदिनी

कस्यचन कार्यस्य निमित्तं राज्यात् बहिः गतवतः शिवराजस्य प्रत्यागमने विलम्बः जातः । यतः सूर्यास्ततः सूर्योदयं यावत् दुर्गात् बहिः गमनम्, अन्तःप्रवेशः च निषिद्धः इति नियमः आसीत् अतः मुख्यप्रवेशद्वारं‌ पिहितम् आसीत् । संन्यासिनः वेषं धृत्वा प्रवेशद्वारस्य समीपं आगतः शिवराजः । अन्तःप्रवेशं निराकृतवान् द्वारपालकः । किञ्चित्कालानन्तरं शिवराजः संन्यासिवेषम् अपनीय स्वस्य निजरूपं दर्शितवान् । तथापि द्वारपालकेन द्वारोद्घाटनं नैव कृतम् । तस्य कर्तव्यनिष्ठां धैर्यञ्च दृष्ट्वा अग्रे तस्मै उपायनं दत्तवान् शिवराजः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Once, King Shivaji returned late from a journey outside the fort. By rule, entry and exit were forbidden between sunset and sunrise, so the main gate was closed. Disguised as a monk, Shivaji approached the gate, but the guard refused him entry. Later, Shivaji revealed his true identity, yet the guard still did not open the gate, firmly adhering to his duty. Impressed by the guard’s discipline and courage, Shivaji rewarded him with a gift.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.