बालमोदिनी

चीनादेशस्य कैसाकनामकस्य श्रेष्ठचर्मकारस्य एकमात्रपुत्रः चुवाङ्गः कुलवृत्तिम् उपेक्ष्य स्वच्छन्दं मित्रैः सह अटति स्म । तेनैव मनोरोगेण पीडितः सन् अल्पेषु एव दिनेषु कैसाकः दिवं गतः । स्वेच्छाचारी चुवाङ्गः कैसाकस्य अर्जितं सर्वं धनं व्ययीकृतवान् । कदाचित् राजा तम् आनाय्य 'राज्ञीवासजनेभ्यः सुन्दरीः पादरक्षाः सीवयित्वा ददातु' इति अवदत् । पितृवाक्यस्य उपेक्षा या कृता तदर्थं पश्चात्तापम् अनुभवन् अञ्जलिं बद्ध्वा पितरं रक्षणार्थं प्रार्थितवान् । प्रातः उत्थाय चुवाङ्गः अपश्यत् यत् पादरक्षाः निर्मिताः आसन् । राजा बहुधा प्रशंसन् तस्मै भूरि धनम् अयच्छत् । एकस्मिन् दिने मध्यरात्रे पादसीवनस्थले काचित् अप्सरस्स्त्री दृष्टा चुवाङ्गेन । यतः सा आलस्येन कुलवृत्तिम् उपेक्षितवती अतः देवेन्द्रः ये स्ववृत्तेः उपेक्षां कुर्वन्ति तेषां सेवा करणीया इति तां भूलोकं प्रेषितवान् आसीत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

In China lived Kaisak, a master shoemaker, whose son Chuwang ignored the family trade and wasted his father’s wealth. When the king ordered him to make fine shoes, Chuwang regretted neglecting his duty and prayed for help. Miraculously, the shoes appeared, earning him praise and riches. Later, he saw a celestial maiden sent by Indra to serve him, as she too had neglected her own duty.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.