बालमोदिनी

कदाचित् श्रीरामः हनुमदादिभिः सह सुवेलपर्वतशिखरं गतः । तत्र दृश्यमानं चन्द्रं दर्शयन् स्वस्य स्वस्य चिन्तनानुगुणं चन्द्रे दृश्यमानायाः कृष्णवर्णतायाः कारणं किं भवितुमर्हति इति अपृच्छत् । राजा सुग्रीवः, अग्रजात् प्रहारं प्राप्य राज्यात् निर्गतः विभीषणः, सिंहासनस्य उत्तराधिकारित्वं प्राप्तुं योग्यतायां सत्याम् अपि युवराजपदमात्रं प्राप्तवान् अङ्गदः, प्रियसहोदरः, सीतावियोगदुःखतप्तः च रामः, रामभक्तः आञ्जनेयः च स्वीयं स्वीयं कारणं वदन्ति । अत्र चन्द्रः अस्माकं मनः इव । अन्तःकरणभावस्य अनुगुणं वयं दर्पणरूपे मनसि अन्येषाम् आकारं पश्यामः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Once, Shri Rama went to the top of Suvela mountain with Hanuman and others. There, he saw the moon and asked why it appeared dark in some places. Each person gave a reason based on their own thoughts and experiences. Sugriva, bearing the pain caused by his elder brother’s attack, Vibhishana, being exiled despite being worthy of the throne, Angada, with sorrow of not becoming king even though he deserved it, Rama, with grief over being separated from Sita, and Hanuman, with his deep devotion express their own reasons. The moon here is like our mind—what we see in it reflects our inner emotions.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.