बालमोदिनी

श्रोणिकनामकः राजा मगधदेशस्य राजगृहनामके नगरे शासनं करोति स्म । तस्य मन्त्री अभयकुलः अत्यतं चतुरः आसीत् । तस्य राजोद्याने कश्चित् सदाफलः महान् आम्रवृक्षः आसीत् । उद्यानात् अनतिदूरे कश्चन चाण्डालः वसति स्म । तस्य गर्भवती पत्नी कदाचित् आम्रफलखादनेच्छां प्रकटितवती । सः अवनामिका उन्नामिका इति विद्याद्वयं जानाति स्म । सः एते विद्ये उपयुज्य राजोद्यानात् आम्रफलानि चोरितवान् । यदा सः चौर्यार्थं गृहीतः जातः तदा मन्त्री उपायेन तस्य विमोचनं कारयति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
King Shronika ruled from Rajagriha in the kingdom of Magadha. His wise minister, Abhayakula, served him faithfully. Near the royal garden stood a famous mango tree that bore fruit all year round. A poor outcaste's pregnant wife once longed to eat those mangoes. Using two special skills he possessed, the man secretly stole the fruits from the royal garden. When he was caught, the clever minister found a way to save him.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.