बालमोदिनी

कश्चन बुद्धिमान् युवकः दुर्गादासः कदाचित् रात्रौ 'चोरः चोरः' इति चीत्कारं कृतवान् । तदा ग्रामीणाः सर्वविधानि आयुधानि स्वीकृत्य चोरं ग्रहीतुम् आगतवन्तः । किन्तु न्यग्रोधवृक्षस्य पुरतः महान् व्याघ्रः तैः दृष्टः । अनुक्षणमेव सर्वे मिलित्वा लवित्रैः दण्डैश्च तं मारितवन्तः । अनन्तरं जनाः 'किमर्थं चोरः इति उक्तवान् भवान्' इति यदा अपृच्छन् तदा मन्दहासपूर्वकं अवदत् दुर्गादासः 'चोरः इति मत्वा भवन्तः सर्वे गृहात् बहिः आगतवन्तः । यदि अहं व्याघ्रः इति आक्रोशम् अकरिष्यं तर्हि भवन्तः सर्वे आगमिष्यन् ? अतः एव अहं चोरः चोरः इति आक्रुष्टवान्' इति । सर्वे दुर्गादासस्य समयप्रज्ञां श्लाघितवन्तः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

One night, a clever young man named Durgadas shouted, "Thief! Thief!" Hearing this, the villagers rushed out with weapons to catch the thief. However, instead of a thief, they found a fierce tiger near a banyan tree. Immediately, they united and killed the tiger with axes and sticks. Later, they asked Durgadas why he had shouted "Thief!" instead of "Tiger!" Smiling, he replied, "Had I shouted 'Tiger,' would you all have come out? But by saying 'Thief,' I ensured everyone rushed out". The villagers praised his wisdom and presence of mind.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.