बालमोदिनी

कश्चन पथिकः मरुप्रदेशे सञ्चरन् आसीत् । रात्रौ कश्चित् ध्वनिः श्रुतः 'अत्र पतितान् पाषणखण्डान् चिनोतु । श्वः ते सुवर्णमयाः भवेयुः' इति । किन्तु पथिकस्य विश्वासः न आसीत् । तथापि तेन त्रयः पाषाणखण्डाः स्वीकृताः । अनन्तरदिने त्रयः अपि पाषाणखण्डाः सुवर्णरूपेण परिवृत्ताः आसन् । पथिकः हर्षोत्फुल्लः अभवत् । किन्तु द्वितीयक्षणे 'कुतो मया बहवः पाषाणखण्डाः न चिताः?’ इति चिन्तयन् हतोत्साहः दु:खितश्च अभवत् । तस्य समीपे अमूल्याः त्रयः पाषाणखण्डाः सन्ति चेदपि किञ्चिदपि सुखम् अनुभवितुं न शक्तः जातः सः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

A traveler was wandering through a desert when, at night, he heard a voice saying, "Pick up the fallen stones here. Tomorrow, they will turn into gold". Doubtful but curious, he picked up only three stones. The next morning, he was overjoyed to see that they had indeed turned into gold. However, in the very next moment, he thought, "Why didn’t I collect more?" This regret overwhelmed his happiness, leaving him disheartened and sorrowful, despite having three priceless gold pieces in his possession.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.