बालमोदिनी

कदाचित् मण्डूककुलेन स्पर्धा आयोजिता । समुच्चस्य स्तम्भस्य शिखरं यः आदौ प्राप्नुयात् सः विजयी भवेत् इति निर्णीतम् । बहवः मण्डूकाः अल्पस्य भागस्य आरोहणमात्रेण एव पतिताः अभवन् । किन्तु कश्चन लघुकायः मण्डूकः मन्दं मन्दं स्तम्भस्य आरोहणम् आरब्धवान् । अन्ये मण्डूकानां मुखात् नैराशपूर्णानि वचनानि निर्गतानि । तथापि सः निरन्तरम् अग्रे अगच्छत् लक्ष्यं च प्राप्तवान्  । अन्ते ज्ञातं यत् सः मण्डूकः बधिरः इति । लक्ष्यैकदृष्टिः निरन्तरप्रयत्नः च तस्य साफल्यस्य कारणं जातम् । लक्ष्यपथे अस्माभिः अपि नैराश्यपूर्णानां वचनानां विषये बधिरता अवलम्बनीया  ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Once, a frog competition was held. The frog that first reached the top of a tall pillar would be the winner. Many frogs fell after climbing only a short distance. A small frog slowly continued climbing while the others discouraged him with negative comments. Yet he kept moving forward and finally reached the top. In the end, it was discovered that the frog was deaf. His success came from his focus on the goal and his constant effort. The story teaches us to ignore discouraging words and stay focused on our goals.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.