बालमोदिनी

अमेरिकादेशे कस्याञ्चित् नद्यां कश्चित् विद्युत्स्तम्भः पतितः । अतिभारयुक्तं तं स्तम्भम् उन्नेतुं कर्मकराः  असमर्थाः जाताः ।  इतोऽपि एकस्य जनस्य साहाय्ये अपेक्षितेऽपि तत्रत्यः प्रमुखः मम योग्यतायाः अननुगुणः व्यवहारः इति मत्वा साहायार्थं न गतवान् । तावता कश्चन अश्वारोही तत्रत्यां स्थितिं दृष्ट्वा कार्ये संलग्नः अभवत् । तस्य प्रोत्साहवचनेन कर्मकराः उत्साहध्वनिं कुर्वन्तः बलेन विद्युत्स्तम्भम् उन्नीय तीरं प्रापितवन्तः । यदा सः अश्वम् आरुह्य गन्तुम् उद्यतः तदा कर्मकरनायकः अपृच्छत् 'भवान् कः?’ इति । 'अहमस्मि अमेरिकायाः राष्ट्रपतिः जार्ज् वाशिङ्गट्न्' इति अवदत् सः अश्वारोही ।
 (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

In a certain river in America, an electric pole had fallen. The workers were unable to lift the heavily loaded pole. Despite needing one more person’s assistance, the local leader, considering the task beneath his dignity, did not offer his help. Meanwhile, a horseman, seeing the situation, got involved in the task. Encouraged by his words, the workers raised the pole with great effort and brought it to the shore. As the horseman was about to leave, the leader of the workers asked, 'Who are you?' The horseman replied, 'I am George Washington, the President of the United States’. This story beautifully illustrates the values of humility, leadership and the importance of offering help regardless of one's position.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.