बालमोदिनी

युधिष्ठिरः धनुर्मासे प्रतिदिनं शिवपूजां करोति स्म । 'परेद्युः समाप्तिदिनम् । अतः श्रीकृष्णेन सह भोजनं कर्तुम् इच्छामि' इति यदा युधिष्ठिरः अवदत् तदा सर्वे चिन्ताग्रस्ताः आसन् । अल्पेन समयेन कथं गमनागमनं शक्यम् इति । तदा भीमसेनः आगत्य 'श्वः सूर्योदयात् पूर्वम् अहं कृष्णम् अत्र आनेष्यामि' इति अवदत् । परेद्यवि भीमः स्नानादिकं कृत्वा पाकशालां गत्वा भोजनस्य सिद्धतां अकरोत् । तस्य पुरतः स्थित्वा द्वारकाभिमुखः सन् श्रीकृष्णं ध्यायन् स्वीयां गदाम् आकाशे क्षिप्त्वा अवदत् 'एषा गदा यावत् मम शिरसः उपरि न पतिष्यति तावता भवता अत्र उपस्थितेन भवितव्यम्' इति । तत्क्षणमेव श्रीकृष्णः प्रकटः भूत्वा भीमम् आलिङ्गितवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

During Dhanurmasa, Yudhishthira worshipped Lord Shiva daily. One day, he expressed his wish to have a meal with Krishna on the final day, leaving everyone worried about the impossible journey to Dwarka. Bhima then declared, "Before sunrise tomorrow, I will bring Krishna here". The next day, after completing his rituals, Bhima ensured the meal was ready. Facing Dwarka, he meditated on Krishna, threw his mace into the sky, and proclaimed, "Until this mace falls on my head, you must appear here!" Instantly, Krishna manifested, embraced Bhima, and fulfilled his wish.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.