बालमोदिनी

विदेशगमने स्पृहा जनैः किं किं कारयति इति अनया कथया ज्ञातुं शक्यते । कदाचित् कस्यचन विश्वविद्यालयस्य भौतशास्त्रविभागाय रशियादेशतः एकं निमन्त्रणपत्रम् आगतम् आसीत् । किन्तु तस्य विद्यालयस्य कुलसचिवः तां वार्तां न भौतविभागप्रमुखम् अवदत्, न वा कुलपतिम् । सः कदाचित् सभायां 'रशियादेशस्य विश्वविद्यालयः मां निमन्त्रितवान् अस्ति' इति उद्घोषितवान् । यदा सः देहलीम् अगच्छत् तदा कस्यचन अधिकारिणः मनसि संशयः उत्पन्नः ।  निमन्त्रणपत्रं परिशील्य तस्य गमनं निवारितवान् अधिकारी ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

This story shows what desire for going abroad can make people do. Once, an invitation letter came from Russia to the Physics Department of a university. But the registrar did not inform the head of the department or the vice chancellor. Later, in a meeting, he announced, “A Russian university has invited me.” When he went to Delhi, an official grew suspicious. After checking the invitation letter, the official stopped his travel.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.