बालमोदिनी

कृष्णः बाल्ये यदा गृहिण्यः गृहे न स्युः, तदा सः मित्रैः सह प्रतिवेशिगृहं गत्वा नवनीतं चौरयति स्म । एकदा काचित् गोपिका शिक्यायां घण्टिकां बध्नाति । यदा कृष्णः नवनीतं चोरयति तदा घण्टानादः भवेत् इति । परन्तु कृष्णः घण्टिकां दृष्ट्वा ताम् आदिष्टवान् यत् मम स्पर्शे शब्दं न करोतु इति । तथापि, नवनीतं मुखे स्थापनसमये घण्टा उच्चैः शब्दम् अकरोत् । गोपिकायाः आगमनात् पूर्वं सः पलायितवान् । अनन्तरं कृष्णः घण्टिकां 'किमर्थ मम आदेशं न पालितवती' इति पृष्टवान् । तदा घण्टिकया उक्तं यत् नैवेद्यसमये नादोत्पादनं मम धर्मः' इति । ततः कृष्णः हसन् निर्गतवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

When Krishna was a child, he would go with his friends to the neighboring houses to steal butter. One day, a gopi tied a bell to the butter pot, so that it would ring when Krishna tried to steal the butter. However, when Krishna saw the bell, he instructed it not to make any sound when he touched it. Despite this, when Krishna put the butter in his mouth, the bell rang loudly. Krishna escaped before the gopi arrived. Later, Krishna asked the bell why it did not obey his command. The bell replied that making a sound during the offering was its duty. Krishna laughed and left.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.