बालमोदिनी

कस्यचित् देशस्य राज्ञः त्रयः पुत्राः आसन् । ते च युवकाः जाताः । एकदा राजा चिन्तामग्नः आसीत् यत् तस्य अनन्तरं कतमः पुत्रः राज्यपालनं कुर्यात् इति । कारणं ज्ञातवता मन्त्रिणा कश्चन उपायः सूचितः – पुत्राः यं कमपि जनं तोषयित्वा आगच्छन्तु । ते तत् कार्यं कथं सम्पादयन्ति इति आधारेण कतमः योग्यः इति निर्णायं कुर्मः' इति । तदनु राजा पुत्रान् आहूय मन्त्रिणा यदुक्तं तथैव अवदत् । ततः पुत्राः गतवन्तः । त्रयः अपि एकैकं प्रजाजनम् आत्मना सह राजसभाम् आनीतवन्तः । तर्हि राजा कस्मै राज्यं ददाति ? कः विजयी जातः ?
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

The king, seeking a successor among his three sons, devised a test based on the minister’s suggestion: each prince had to win over a citizen and present them in the royal court. The son who did so most effectively would prove his worthiness to rule. Each prince returned with a person, but the decisive factor lay in how they had won them over. The one who did so through genuine compassion, wisdom, and leadership—rather than mere persuasion or material offerings—was deemed the rightful heir. The king rewarded the prince who embodied true governance qualities, ensuring a prosperous future for the kingdom.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.