बालमोदिनी

श्रीरामः वनवासगमनात् पूर्वम् अयोध्यावासिभ्यः भूरिदानं कर्तुम् ऐच्छत् । दानविषये श्रुतवती त्रिजटनामकस्य निर्धनब्राह्मणस्य पत्नी श्रीरामं दानं याचतु इति पतये सानुरोधम् उक्तवती । झटिति त्रिजटः गत्वा यदा दानम् अयाचत तदा श्रीरामः विहस्य तस्मै एकं दण्डं दत्त्वा 'दण्डं बलात् क्षिपतु । यत्र पतिष्यति तावतपर्यन्तायां भूम्यां स्थिताः गावः भवदीयाः भविष्यन्ति' इति । कृशशरीरः दुर्बलः च त्रिजटः अचिन्तयत् यत् दण्डः किञ्चिद्दूरे एव पतिष्यति इति । किन्तु यदा अक्षिपत् तदा सरयूनद्याः द्वितीयतटे न्यपतत् यत्र बह्व्यः गावः चरन्ति स्म । त्रिजटः अचिन्तयत् यत् एतावद्दूरं दण्डक्षेपणाय श्रीरामस्य महिमा एव कारणम् इति चिन्तयन् सानन्दं श्रीरामं नमस्कृतवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Before leaving for exile, Shri Rama wished to give generous gifts to the people of Ayodhya. Hearing of this, the wife of a poor Brahmin named Trijata urged her husband to ask Rama for a donation. When Trijata approached, Rama smilingly gave him a stick and said, “Throw it with all your strength. Wherever it lands, the cows grazing on that land shall be yours”. Weak and frail, Trijata thought the stick would fall nearby. But when he threw it, it landed across the Sarayu River, where many cows were grazing. Amazed, Trijata realized that such a miracle was due to Rama’s divine power. Filled with joy, he bowed gratefully to Shri Rama.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.