बालमोदिनी

चाङ्गदेवः कश्चन योगी । अनेकाः सिद्धीः प्राप्तवान् आसीत् । जनाः तं बहुधा प्रशंसन्ति स्म । अतः तस्य मनसि अहङ्कारः उत्पन्नः । तस्मिन् एव काले सतः ज्ञानेश्वरस्य कीर्तिः सर्वत्र प्रसृता । भगवतः विठ्ठलस्य परमभक्तः । ज्ञानेश्वरे ईर्ष्याद्वेषादयः विकाराः न आसन् । ज्ञानेश्वरस्य कीर्तिं श्रुत्वा चाङ्गदेवः तेन मेलितुम् इष्टवान् । यदा मेलितुं गतवान्, ज्ञानेश्वरः तस्य अहङ्कारं दूरीकृतवान् । चाङ्गदेवः तस्य शिष्यः च अभवत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Changadeva was a yogi who had attained many powers and was praised by people, which gave rise to pride in him. At that time, the fame of Jnaneshwar, a great devotee of Lord Vitthala, spread everywhere. Jnaneshwar had no envy or malice. Hearing of Jnaneshwar’s renown, Changadeva wished to meet him. When he did, Jnaneshwar removed his pride, and Changadeva became his disciple.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.