बालमोदिनी

कश्चित् निर्दयः चोरः कस्मिंश्चित् गृहं प्रविश्य जागरितं बालकं रज्जुभिः बध्नाति । क्षणाभ्यन्तरे बालकः बन्धनात् आत्मानम् अमोचयत् । कीदृशः चोरः भवान् यः दृढं बन्धुम् अपि न शक्नोति, कथं बन्धनं करणीयमिति दर्शयिष्यामि इति वदन् बालकः चोरस्य पादौ हस्तौ ग्रीवां च बध्नाति । ग्रन्थीनां शिथीलीकरणे चोरः न शक्तः । रज्जुभिः बन्धनं कर्मभिः बन्धनमिव । कर्मणां बन्धनेभ्यः अस्माभिः मुक्तैः भवितव्यम् । 
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Once, a ruthless thief entered a house and tied up a boy with ropes, who had been awakened by the thief's arrival. Soon, the boy freed himself. The boy said, "What kind of thief are you, who cannot even bind firmly? I will show you how to make a proper bondage." Saying this, the boy tied the thief's feet, hands, and neck, with the result that the thief was unable to loosen the knots. Binding with ropes is like binding with actions. The boy is not bound by them. We must be freed from the bondage of actions.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.