बालमोदिनी

कदाचित् कश्चन आङ्ग्लाधिकारी कृत्रिमं विनयं दर्शयन् दयानन्दसरस्वतीवर्यम् अपृच्छत् 'अधुना भारते आङ्ग्लानां भविष्यं कथं स्यात्?’ इति । तदा दयानन्दवर्यः अवदत् 'आङ्ग्लाः अलसाः जाताः सन्ति । अलसानां भविष्यं सदा निराशदायकम् एव भवति' इति उक्त्वा आङ्ग्लानां दिनचरीं विस्तृतरूपेण अवदत् । दयानन्दवर्यस्य वचनं वास्तवद्योतकम् अप्रियसत्यज्ञापकं च आसीत् इति कारणतः आङ्ग्लाधिकारी प्रतिवचनं किमपि अनुक्त्वा मुखम् अवनमय्य मौनेन ततः निर्गतवान् ।  
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Once, an English officer, feigning politeness, asked Swami Dayananda Saraswati, “What will be the future of the English in India?” Dayananda replied, “The English have become lazy. The future of the lazy is always hopeless.” He then described their daily routine in detail. Because his words revealed an unpleasant truth, the officer, unable to respond, bowed his head and left silently.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.