बालमोदिनी

महर्षेः कणादस्य प्रसिद्धिं श्रुत्वा तत्रत्यः राजा तस्य दर्शनलाभं प्राप्तुम् इष्टवान् । सः महर्षिं नमस्कृत्य सेवकानां द्वारा नीतानि वज्रवैडूर्यादिभिः पूर्णानि पात्राणि अयच्छत् । किन्तु महर्षिः उपायनं न स्वीकृतवान् । किमर्थम् इति पृष्टे महर्षिः अवदत् 'महाराज ! जनानां वचनं श्रुत्वा मह्यम् उपायनं दीयते भवता । यदि जनाः मम विषये दुर्वचनानि अवदिष्यन् तर्हि भवान् मह्यं दण्डनम् अदास्यत् । केवलं कर्णाभ्यां श्रुतेषु वचनेषु विश्वस्य दत्तम् उपायनम् अहं न स्वीकरोमि' इति । एषः महर्षिः वास्तविकः महाज्ञानी इति इदानीं महाराजः ज्ञातवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Hearing of the great sage Kanāda’s fame, a local king wished to meet him. After paying his respects, the king offered vessels filled with precious gems through his attendants. However, the sage refused the gift. When asked why, he replied, "O King! You offer me gifts based on what people say about me. If they had spoken ill of me, would you have punished me instead? I do not accept rewards merely based on hearsay". Realizing the sage’s true wisdom, the king understood that Kanāda was indeed a great enlightened soul.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.