बालमोदिनी

यदा भगवान् ब्रह्मा जगत् असृजत् तदा सर्वान् आहूय पञ्चविंशतिवर्षात्मकम् आयुः किं पर्याप्तम् ? इति अपृच्छत् । तदा मानवः तावत् न पर्याप्तम् इति अवदत्  । तदा गर्दभः कुक्कुरः उलूकः च स्वस्य स्वस्य वयसः पञ्चविंशतिं वर्षाणि मनुष्यस्य कृते दातुम् अर्हति भवान् इति भगवन्तम् अवदन्  । अधुना मानवेन शतायुष्कत्वं प्राप्तम् । अतः एव मनुष्यः आदौ पञ्चविंशतिं वर्षाणि मनुष्यः इव जीवनं, पुनः पञ्चविंशतिं वर्षाणि गर्दभः इव सर्वकार्याणां वहनं, अग्रे पञ्चविंशतिं वर्षाणि कुक्कुरवत् गृहरक्षणं, अग्रिमेषु पञ्चविंश्त्यां वर्षेषु उलूकः इव अवसरं निरीक्षमाणः जीवत्यागं करोति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

When Brahma created the world, he gave every being a lifespan of twenty-five years. The human felt it was too short. So, the donkey, the dog, and the owl each gave twenty-five years of their lives to the human. Thus, humans received a lifespan of one hundred years. It is said that people live the first twenty-five years as humans, the next twenty-five like donkeys carrying burdens, the following twenty-five like dogs guarding the home, and the last twenty-five like owls waiting for the end of life.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.