बालमोदिनी

कस्मिंश्चित् उत्सवे साम्प्रदायिकरीत्या भोजनालये भूमौ पङ्क्तिरूपेण कदलीदलानि स्थापितानि आसन् । भोजनम् आरब्धम् । भोज्यपदार्थानां भागत्वेन बीजोपेतपक्वाम्रफलनिर्मितः कश्चन पदार्थविशेषः आसीत् । कश्चित् भक्ष्यलोलुपः आम्रफलं हस्तेन सम्पीड्य तस्य रसं यदा आस्वादयन् आसीत् तदा आम्रफलस्य बीजं तस्य हस्तात् स्खलितं सत् पार्श्वे उपविष्टस्य दले न्यपतत् । यदा भक्ष्यलोलुपस्य मुखं म्लानं जातं तदा पार्श्वस्थः अवदत् यत् आम्रबीजस्य स्पर्शनेन मम खाद्यम् अतीव न दूषितम् इति । तदा भक्ष्यलोलुपः तस्य विचित्रवाञ्छाम् अवदत् 'आम्रबीजं न्यूनातिन्यूनं दशदलानि स्पृष्ट्वा अग्रे गच्छेत् इति आशयः असीत् मम' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

At a traditional feast, banana leaves were laid out on the ground for dining. Among the dishes was a ripe mango preparation with its seed intact. A greedy diner squeezed the mango to taste its juice, but the seed slipped from his hand and fell onto the leaf of the person sitting beside him. The greedy man’s face turned pale, but the neighbor calmly said, “My food is not spoiled merely by the touch of a mango seed.” Hearing this, the greedy diner explained his odd wish: “I had hoped that the mango seed would roll forward, touching at least ten leaves before stopping”.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.