बालमोदिनी

आसीत् पुरा रणजितसिंहनामकः कश्चन प्रजानुरक्तः राजा यः न्यायेन धर्मेण च राज्यं परिपालयति स्म । कदाचित् वनविहारार्थं गच्छतः राज्ञः ललाटे कुतश्चित् कश्चन शिलाखण्डः पतितः । तस्य कारणान्वेषणे कृते ज्ञातं यत् काचित् वृद्धा बुभुक्षिताय पुत्राय वृक्षे विद्यमानं बहुबीजफलं प्राप्तुम् एकं शिलाखण्डम् अक्षिपत् । दौर्भाग्यवशात् सः शिलाखण्डः राज्ञः ललाटे पतितः । जडः वृक्षः अपि पाषाणघातं प्राप्य फलं ददाति, सचेतनः अहं कथं वा एतां दण्डयेयम् ? इति विचिन्त्य राजा तस्यै वृद्धायै आहारसामग्रीं, सहस्रं सुवर्णनाणकानि च दत्तवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Long ago, there was a king named Ranjit Singh, beloved by his people, who ruled with justice and righteousness. One day, while going for a walk in the forest, a stone suddenly fell on his forehead. On investigating the cause, it was discovered that an old woman, in order to feed her hungry son, had thrown a stone at a tree to obtain its fruit. By misfortune, the stone struck the king’s forehead. The king reflected: “Even an insentient tree gives fruit only after being struck by a stone. How then can I, a conscious being, punish this poor woman?” With this thought, the king gave her food supplies and a thousand gold coins.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.