बालमोदिनी

पक्षिभाषाभिज्ञः राजा देवदत्तः राजकुमारेण सह स्वभवनस्य वाटिकायां निवसत्या चटकया सह सम्भाषणं करोति स्म । कदाचित् चटका यदा आहारार्थं गता आसीत् तदा राजकुमारस्य मनसि दुर्विचारः उत्पन्नः, येन सः चटकशावकं मारितवान् । राजकुमारः‌ एव स्वशावकं मारितवान् इति विचिन्त्य सा चटका चञ्च्वा राजकुमारस्य नेत्रयोः नाशं कृतवती । स्वपुत्रस्य राजकुमारस्य दोषं ज्ञात्वा यद्यपि सः राजा चटकायाः अपराधं क्षान्तवान् तथापि परस्परविरोधः यत्र स्यात् तत्र वासः अनुचितः इति मत्वा चटका देशान्तरं गन्तुम् इष्टवती ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
King Devadatta, who understood bird language, would converse with a sparrow in his palace garden. One day, the prince killed the sparrow's chick in anger. In revenge, the sparrow caused the prince to lose his eyesight. Although the king forgave the sparrow, the sparrow felt it was inappropriate to live in a place of mutual conflict and decided it was best for her to leave the kingdom.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.