बालमोदिनी

कदाचित् इन्द्रः अन्येषाम् अपेक्षया मया सहस्राधिकानि पुस्तकानि पठितानि इति गर्वितः जातः । तद्दिनादारभ्य सः कमपि न परिगणयति स्म । इन्द्रस्य गर्वं दूरीकर्तुं भगवान् नारायणः नारदं स्वर्गलोकं प्रति प्रेषितवान् । नारदमहर्षेः स्वागतं कृतम् इन्द्रेण । तयोः सम्भाषणावसरे तालग्रन्थानां राशिः उद्भूतः तत्र । 'किमिदम्?’ इति इन्द्रेण पृष्टे नारदः अवदत् 'एतानि भवता पठितानि पुस्तकानि' इति । ततः क्षणाभ्यन्तरे मेरुपर्वतः इव तेषां पुस्तकानां राशेः औन्नत्यं वर्धितम् । तदा नारदः अवदत् 'एतानि सर्वाणि भवता अपठितानि पुस्तकानि । ज्ञानम् अनन्तम् अपारञ्च  । भवता पठितानि पुस्तकानि नगण्यानि' इति । तत् श्रुत्वा इन्द्रस्य गर्वः अपगतः । इन्द्रः नारदस्य पादयोः च पतित्वा क्षमाम् अयाचत ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Indra grew proud, boasting that he had read thousands of books. To remove his pride, Lord Narayana sent Narada to heaven. During their talk, a pile of manuscripts appeared—Narada said these were the books Indra had read. Soon, the pile grew like Mount Meru, and Narada explained it represented the countless books Indra had not read, for knowledge is infinite. Realizing his pride was meaningless, Indra bowed to Narada and sought forgiveness.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.