बालमोदिनी

महाभारतयुद्धस्य अनन्तरम् ऋषिः शमिकः रणरङ्गं गतः । तत्र लघुपक्षिणां कूजनं श्रुतम् । तान् स्वस्य आश्रमं नीत्वा जागरूकतया पोषितवान् । छात्राणाम् अध्यापनसमये पक्षिभिः अपि वेदाः, विविधानि शास्त्राणि च शिक्षितानि । एकस्मिन् दिने पक्षिणां मुखात् वेदमन्त्रान् श्रुत्वा मुन्यादयः महत् आश्चर्यं प्राप्तवन्तः । शमिकः अपृच्छत् यत् कथं ते मनुष्याः इव भाषणे समर्थाः इति । तदा ते पूर्वजन्मनि प्रवृद्धं सर्वम् अवदन् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
After the Mahabharata war, the sage Shamika went to the battlefield. There, he heard the chirping of small birds. He took them to his ashram and carefully looked after them. While teaching his students, the birds also learned the Vedas and various scriptures. One day, the sages were amazed to hear Vedic chants coming from the birds’ mouths. Shamika asked how they were able to speak like humans. The birds then revealed that they had gained all this knowledge in their previous birth.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.