कदाचित् समुद्रे झञ्झावातप्रहारं प्राप्तायाः महानौकायाः जनान् रक्षितुम् कश्चित् युवकः मातरम् अनुज्ञा याचते । षड्भ्यः वर्षेभ्यः पूर्वं समुद्रप्रयाणाय निर्गतः तस्य पतिः न प्रत्यागतः इति कारणतः पुत्रं कथं प्रेषयामि इति चिन्तयति माता । किन्तु सः कथञ्चित् मातरं समाधाय अनुज्ञां प्राप्य च चातुर्येण नौकां चालयन् महानौकासमीपं गत्वा तत्रत्यान् सर्वान् तीरं प्रापयत् सः । तीरं प्रापितेषु जनेषु तस्य पिता अपि अन्यतमः । पित्रा सह आगतः पुत्रः मातरम् अवदत् - ‘भवत्या पुण्यकार्याय अनुज्ञा दत्ता अतः पिता प्रतिप्राप्तः' इति । सः एव बालः अब्राहमलिङ्कननामा भाविनि काले जगद्विख्यातः जातः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, a young man sought his mother's permission to save the people of a large boat that was struck by a storm at sea. Six years earlier, his father had gone on a sea voyage and had not returned. The mother, worried, thought about how she could send her son. However, the young man somehow consoled his mother, obtained her permission, and skillfully navigated the boat, reaching the large boat and bringing all the people to shore. Among those brought to shore was his father. The son, who came back with his father, told his mother, "Because you gave permission for a noble deed, father has returned." That boy, named Abraham Lincoln, later became world-renowned.
What is बालमोदिनी?
सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।
Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.