बालमोदिनी

कदाचित् परशुरामभागवता स्पर्शमणिः लब्धः । गृहम् आगत्य पत्न्यै अयच्छत् । सख्याः नामदेवस्य पत्न्याः गृहे महती निर्धनता अस्ति इति कारणतः सा सख्यै 'अपेक्षितप्रमाणेन सुवर्णं प्राप्य मणिं प्रत्यर्प्यताम्' इत्युक्त्वा मणिम् अयच्छत् । सखी मणेः साहाय्येन सुवर्णं प्राप्य तं विक्रीय तण्डुलादिकम् आनीय पाकं सज्जीकृतवती । प्रवृत्तं सर्वं ज्ञात्वा नामदेवः दुराशामूलं मणिं नद्यां क्षिप्तवान् । तत् ज्ञात्वा यदा भगवान् मणिं प्रत्यर्पयितुम् अवदत् तदा नामदेवः नदीजले हस्तं प्रसार्य कञ्चित् शिलाखण्डम् उपरि आनीतवान् । शिलाखण्डस्य स्पर्शनेन तीरे पतितः अयोदण्डः सुवर्णखण्डः जातः  ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Parashurama received a philosopher’s stone and gave it to his wife, who lent it to Namdev’s poor wife. She used it to obtain gold and buy food. When Namdev learned of this, he threw the stone into the river, considering it a source of greed. Later, when he was asked to return the stone, he simply picked up an ordinary stone from the river. When it touched an iron rod lying on the bank, the rod turned into gold, showing Namdev’s spiritual power.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.