बालमोदिनी

कस्मिंन्श्चित् प्रासादे काचित् सेविका राज्ञः शय्यागृहस्य स्वच्छतासमये राज्ञः मृदुलां स्थूलां शय्यां दृष्ट्वा शयनसुखानुभवेच्छया शय्याम् आरूढवती । महान्तं हितानुभवे प्राप्ते अचिरात् एव तया निद्रा प्राप्ता । अल्पे एव काले राजा राज्ञी च तत्र आगतौ । शयानां सेविकां दृष्ट्वा राज्ञः कोपः नितरां प्रवृद्धः ।  राजा कशाम् आनाय्य प्राहारम् आरब्धवान् । सेविका हसितुम् आरब्धवती । किमर्थम् अयं व्यवहारः इति पृष्टे सेविकया दत्तेन उत्तरेण राज्ञः कर्तव्यताबुद्धिः जागृता भवति । किं तत् उत्तरम् इति कथां श्रुत्वा ज्ञास्यामः । 
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
In a certain palace, a maid, while cleaning the king's bedroom, saw the soft and luxurious bed and desired to experience its comfort. She climbed onto the bed and soon fell asleep, enjoying its great comfort. Shortly after, the king and queen arrived there. Seeing the maid sleeping, the king's anger greatly increased. The king fetched a whip and began to strike. The maid began to laugh. When asked why she was laughing, the answer given by the maid awakened the king's sense of duty. What was that answer? Let us listen to the story to know.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.