बालमोदिनी

रामः यदा वनवासं प्रति प्रस्थितवान् मार्गे एकं कण्टकं रामस्य पादे लग्नम् । वेदनाम् अनुभवन् सः भूदेवीं प्रार्थितवान् 'मातः! यदा भरतः मम अन्वेषणं कुर्वन् अत्र आगच्छेत् तदवसनरे मार्गे कण्टकानि शिलाखण्डाः च यथा न भवेयुः तथा अनुगृहाण' इति । 'किमर्थम् एवं प्रार्थितम्?’ इति कुतूहलेन सीता अपृच्छत् । तदा रामः अवदत् 'अन्वेषणसमये यदि भरतेन कण्टकवेधः प्राप्येत तर्हि सः चिन्तयेत् यत् मम अग्रजः एतादृशैः कियद्भिः कण्टकैः विद्धः स्यात् इति न ज्ञायते इति । तदीयं हृदयं नितरां व्यथितं भवेत् । अतः एव मया भूदेवी तथा प्रार्थिता' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

When Rama set out for exile, a thorn pierced his foot along the way. Feeling the pain, he prayed to Mother Earth: “When Bharata comes here searching for me, please ensure that there are no thorns or stones on the path.” Curious, Sita asked, “Why did you pray so?” Rama replied: “If Bharata were pricked by a thorn during his search, he would worry, thinking how many such thorns might have pierced his elder brother. His heart would be deeply troubled. That is why I prayed to Mother Earth.”

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.