बालमोदिनी

कदाचित् प.पू वल्लभदीक्षितः तत्पुत्रः च श्रीधरहर्गेमहाराजः तीर्थयात्रां कुर्वन्तौ गोदावरीनद्याः समीपे स्थितं राजमहेद्रपत्तनम् आगतवन्तौ । सुखसम्पन्नं नगरं दृष्ट्वा वल्लभदीक्षितः सङ्कल्पितवान् यत् सप्त दिनानि भागवतपारायणं कथाश्रवणं च करणीयम्, तदवसरे सर्वजातिबान्धवानाम् अपि भोजनव्यवस्था करणीया इति । किन्तु नगरस्य धनिकाः वणिजः अदृष्टपूर्वे जने अधिकं विश्वासं कर्तुम् अनिच्छन्तः साहाय्यं न कृतवन्तः । यस्मिन् दिने वल्लभदीक्षितः पारायणस्य आरम्भं कृतवान् तस्मिन्नेव भगवान् रामः, लक्ष्मणः, हनूमान् च वेषान्तरं धृत्वा आपणं स्थापयित्वा सहस्रशः जनेभ्यः‌ भोजनं दत्तवन्तः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Once, the revered Vallabhadikshita and his son, Shri Dharahargemaharaj, embarked on a pilgrimage and arrived at Rajamahendrapattanam, situated near the Godavari river. Upon seeing the prosperous town, Vallabhadikshita resolved to conduct a seven-day Bhagavata recitation and storytelling session. On this occasion, he decided to arrange food for people from all communities and castes. However, the wealthy merchants of the town, reluctant to trust an unfamiliar person, refused to offer help. On the very day Vallabhadikshita began the recitation, Lord Rama, Lakshmana, and Hanuman, disguised in different forms, established a stall and served food to thousands of people.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.