बालमोदिनी

कदाचित् कश्चन भक्तः कस्यचन माहात्मनः कुटीरे एकस्यां रात्रौ वासम् अकरोत् । इष्टिका एव उपाधानम्, जीर्णः च कटः एव शय्या आसीत् तस्य माहात्मनः । एतत् दृष्ट्वा सः भक्तः तस्य कष्टमयं जीवनं दृष्ट्वा उत्तमव्यवस्थां व्यवस्थापयिष्यामि इति अवदत् । किन्तु भगवता यत् दत्तं तत् एव परमप्रियम् इति महात्मा मन्यते स्म । इदानीं यावत् स्यात् तावता एव सः नितरां सन्तुष्टः आसीत् । एतादृशस्य कारणतः एव सः महात्मा जाता इति विचिन्त्य सः भक्तः तं महात्मानं नमस्कृत्य ततः‌ निर्गतवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Once, a devotee spent a night in the hut of a saint. The saint used bricks as a pillow and an old mat as his bed. Seeing his difficult life, the devotee offered to arrange better facilities. But the saint believed that whatever is given by God is most precious, and he remained completely content with what he had. Realizing that such contentment was the reason for his greatness, the devotee bowed to the saint and departed.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.