बालमोदिनी

तीर्थयात्रासमये कश्चन धनिकः वृद्धः कस्यचन निर्धनस्य युवकस्य सेवातः सन्तुष्टः भूत्वा स्वकन्यां तुभ्यं ददामि इति वृन्दावने गोपालस्य पुरतः अवदत् । गृहगमनानतरं एतत् प्रस्तावं वृद्धस्य पुत्रः निराकरोत् । अतः यदा तरुणः विवाहविषये अपृच्छत् तदा वृद्धः 'अहं किमपि न स्मरामि' इति अवदत् । वृद्धस्य पुत्रः  दोषारोपणं यदा अकरोत् तदा तरुणः अवदत् यत् भवतः पिता गोपालस्य पुरतः एव प्रतिज्ञा कृता इति । 'तर्हि गोपालः एव अत्र आगत्य साक्ष्यं वदेत् चेत् अहं‌ भगिनीं भवते दद्याम्' इति पुत्रः अवदत् । तरुणः वृन्दावनं गत्वा यदा प्रार्थयते तदा गोपालः तम् अनुसृत्य विद्यानगरं प्रति आगत्य साक्ष्यम् अवदत् । एतस्मात् तस्य नाम 'साक्षी गोपालः' इति जातम् । अग्रे राजा पुरुषोत्तमः गोपालविग्रहं नीत्वा जगन्नाथपुरीसमीपे प्रतिष्ठापितवान् । 
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

During a pilgrimage, a wealthy old man was so impressed by a poor young man's service that he promised to give his daughter in marriage, making the vow before the deity Gopala in Vrindavan. But back home, the old man's son rejected the proposal, and the old man claimed he didn’t remember it. When the young man insisted the promise was made before Gopala, the son challenged him: “If Gopala comes and testifies, I’ll agree.” The young man prayed, and miraculously, Gopala followed him to Vidyanagar and gave witness. From then on, the deity was known as Sakshi Gopala — “ Gopala the Witness.” Later, King Purushottama installed the deity near Jagannath Puri.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.