बालमोदिनी

कश्चन नितरां धर्मनिष्ठः दानशीलः च आसीत् । कदाचित् राजभवनम् आगतवते तापसाय राजा अवदत् 'अहं भवते अत्यमूल्यं कमपि उपहारं ददामि' इति । तापसः 'आत्मनः अत्यन्तं प्रियं वस्तु मह्यं ददातु' इति अवदत् । राजा राज्यकोषं, राजभवनं, रथादिकं ददामि इति यदा वदत् तदा तत्सर्वं प्रजाजनानम् इति अवदत् तापसः । शरीरमपि मातापितृभ्यां दत्तम्, अतः तदपि भवतः न इत्युक्तं तापसेन । यदा राजा विस्मयेन मूढः जातः तदा तापसः अवदत् 'भवतः मनसि यः अहङ्कारः अस्ति सः पूर्णतः भवदीयः एव, तस्य दानं करोतु' इति । अनन्तरदिनतः राजा अनासक्तः योगी इव शासनं कृतवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

A deeply righteous and generous ascetic visited the king, who offered him a precious gift. The ascetic requested the king’s most beloved possession. The king offered his treasury, palace, and chariot, but the ascetic reminded him these belonged to the people. Even his body was a gift from his parents. Perplexed, the king asked what he could give. The ascetic replied, “Your ego is entirely your own. Offer that”. From that day, the king ruled with detachment, like a true yogi.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.