बालमोदिनी

गुरोः विरजानन्दस्य उटजस्य स्वच्छता दयानन्दस्य दायित्वम् आसीत् । एकदा यदा दयानन्दः उटजं सम्मार्जयन् अवकरान् द्वारसमीपे राशीकृतवान् आसीत् तदा कश्चित् तम् आहूतवान् इति कारणतः अवकरान् अक्षिप्त्वा एव ततः निर्गतवान् । तावता तत्र आगतवतः क्षीणदृष्टिशक्तेः विरजानन्दस्य अवकरस्पर्शतः महान् कोपः जातः । सः दयानन्दम् आनाय्य दण्डेन निरन्तरं ताडितवान् । यदा दयानन्दः उच्चैः रोदनं कृतवान् तदा त्यक्तकोपः सन् गुरुः 'वत्स! महती वेदना जाता किम्?’ इति पृष्टे दयानन्दः अवदत् 'गुरो ! दण्डप्रहारजनितवेदनाकारणतः अहं न रोदिमि । प्रहारसमये कुसुमकोमलः भवतः हस्तः कियतीं वेदनाम् अनुभूतवान् स्यात् इति स्मरतः‌ मम नेत्राभ्याम् अश्रूणि निर्गतानि' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

The cleaning of Guru Virjananda’s hut was the responsibility of Dayananda. One day, while Dayananda was sweeping, he gathered the refuse near the doorway. Just then, someone called him, so he left without throwing it away. Soon after, Guru Virjananda, whose eyesight was weak, came and accidentally touched the refuse. Greatly angered, he called Dayananda and beat him repeatedly with a stick. When Dayananda cried aloud, the Guru, calming down, asked: “My child, did you suffer great pain?” Dayananda replied: “O Guru! I did not cry because of the pain from your blows. I wept because I thought of how much pain your tender, flower-like hand must have felt while striking me”.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.