बालमोदिनी

कश्चन धनिकः भक्तः बहुमूल्यकं राङ्कवं यत् श्रीकृष्णबोधानन्दनाम्ने संन्यासिने उपायनीकृतवान् आसीत् तत् राङ्कवं स्वामी पार्श्वे स्थिताय विदुषे दत्तवान् । एतत् धनिकाय न अरोचत इति ज्ञात्वा स्वामी राङ्कवं धनिकाय प्रत्यर्पयितुं विद्वांसम् असूचयत् । राङ्कवस्य प्रतिस्वीकरणम् अनिच्छन्तं धनिकं प्रति स्वामी वदति - ॑'इदं न मम' इति बुद्ध्या यत् दीयेत तस्य उपयोगः कथं करणीयः इति दात्रा चिन्तनीयं नास्ति । अतः एव तत् प्रतिदातुं मया उक्तम्' इति । एतस्मात् विवेकं प्राप्य धनिकः राङ्कवं स्वीकरणीयम् इति प्रार्थयते ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A wealthy devotee once gave a precious gift to a sanyasi named Shrikrishnabodhananda. The sanyasi then gave the gift to a scholar standing next to him. When the wealthy man learned that the sanyasi was giving it away, he became displeased. In response, the sanyasi told the scholar to return the gift to the wealthy man. The sanyasi said to the wealthy man, 'The person who gives the gift should not worry about how it is used. Therefore, I told the scholar to return it.' After hearing this, the wealthy man realized his mistake and pleaded with the sanyasi to accept the gift.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.