बालमोदिनी

पूर्वं केनचित् राज्ञा वेषान्तरं धृत्वा देशाटनसमये कश्चन ग्रामपरिसरः प्राप्तः । कस्यचित् बालकस्य मुखात् विविधेषु सन्दर्भेषु आगतानि सामान्यानि वचनानि राज्ञि महान्तं परिणामम् अजनयत् ।  रात्रौ शयनसमये अपि सः तानि एव वचनानि पुनः पुनः वदन् आसीत् । तस्य देशस्य धूर्तः मन्त्री सर्वदेशिकः रात्रौ राजकोषात् धनं चोरयितुम् आगतः । तदा निद्रामग्नस्य राज्ञः मुखात् तान्येव वचनानि आगतानि - ‘अहो!महान् शब्दः', ‘’निश्शब्दत्वं निरन्तरं', ‘पलायनं विना शब्दः', ‘हेतुस्त्वं सर्वदेशिक' इति । समग्रं व्यवहारं राजा ज्ञातवान् इति चिन्तयन् मन्त्री राज्ञः पादौ गृहीत्वा क्षमाम् अयाचत । ग्रामीणबालकस्य सामान्यवचनम् अपि देशस्य प्रयोजनाय अभवत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Once, a king, disguised in different attire, was traveling and reached the outskirts of a village. A boy's ordinary words in various contexts had a great impact on the king. Even at night, while sleeping, the king kept repeating those words. That night, the cunning minister named Sarvadeshika came to steal money from the royal treasury. In his sleep, the king uttered the same words: ‘Ah! What a great sound’, ‘Silence is continuous’, ‘A sound without an escape’, ‘You are the cause, Sarvadeshika’. Thinking that the king was aware of the whole situation, the minister held the king's feet and begged for forgiveness. The ordinary words of a village boy turned out to be beneficial for the entire country.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.